वांछित मन्त्र चुनें

स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणी॑: । ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥

अंग्रेज़ी लिप्यंतरण

satyaṁ tad indrāvaruṇā kṛśasya vām madhva ūrmiṁ duhate sapta vāṇīḥ | tābhir dāśvāṁsam avataṁ śubhas patī yo vām adabdho abhi pāti cittibhiḥ ||

पद पाठ

स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य॑ । वा॒म् । मध्वः॑ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः॑ । ताभिः॑ । दा॒श्वांस॑म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । यः । वा॒म् । अद॑ब्धः । अ॒भि । पाति॑ । चित्ति॑ऽभिः ॥ ८.५९.३

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:30» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3